________________
तरितमकरणम्
स्थात्तस्येदमर्थे । आश्वरथं चक्रम् ॥
वाहनात् ॥ ६।३। १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रोरथः । हास्तः ॥
वाह्यपथ्युपकरणे ॥ ६ । ३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादावेव । आश्वोरयः। पन्था वा । भाश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः।।
वहेस्तुरिश्चादिः ॥६।३। १८० ॥ तस्येदमर्थेऽन् । सांवहित्रम् ॥
तेनप्रोक्ते ॥६।३ । १८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षणव्याख्यातमध्यापितं वा प्रोक्तं नतुकृतम् । भाद्रवाहवान्युत्तराध्ययनानि। पाणिनीयम् । बार्हस्पत्यम् ॥
कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसद्मसुपर्वणः ॥ ७ । ४ । ६२॥
अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः। तैतलाः। जाजलाः। लाङ्गलाः । शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसः । सौकरसमाः सौपर्वाः॥ -
मौदादिभ्यः॥६।३ । १८२ ॥
तेन प्रोक्ते यथाविहितमण। मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा. मादाः। पैष्पलादाः ॥
कठादिभ्यो वेदे लुप् ॥ ६ । ३ । १८३ ॥