________________
तत्रभवे तदन्तस्य रूढौ। कणिका कर्णाभरणम् । ललाटिका ललाटमण्डनम् ॥ तस्य व्याख्याने च ग्रन्थात् ॥ ६।३। १४२ ॥
तत्रभवे यथाविहितं प्रत्ययः। कार्तम् । प्रातिपदिकीयं ब्याख्यानं भवं वा॥
प्रायोबहुस्वरादिकण ॥ ६ । ३ । १४३ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पात्वणत्विकम् । प्रायोवचनात् साहितम् ॥
ऋगृद्विस्वरयागेभ्यः ॥६।३ । १४४ ॥ ग्रन्थवाचिभ्यस्तस्यव्याख्याने तत्रभवे चेकण् । आर्चिकम् । चातु)तकम् । आङ्गिकम् । राजसूयिकम् ॥
ऋषरध्याये ॥ ६ । ३ । १४५ ॥ ग्रन्थवृत्तेस्तस्य व्याख्याने तत्रभवे चेकण । वासिष्ठिकोऽध्यायः। अध्याय इति किम् ? । वाशिष्ठी ऋक् ॥ पुरोडाशपौरोडाशादिकेकटौ ॥ ६।३ । १४६ ॥
ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च । पुरोडाशिका । पुरोडाशिकी । पौरोडाशिका । पौरोडाशिकी ॥
छन्दसोयः॥ ६।३। १४७ ॥ ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च। छन्दस्यः॥
शिक्षादेश्वाण ॥६।३। १४८॥ छन्दसोग्रन्थार्थात्तस्यव्याख्याने तत्रभवे च । शैक्षः। आर्गयनः । छान्दसः ॥