________________
वदितप्रकरणम्.
तत आगते । ६ । ३ । १४९ ॥ यथाविहितमणेयणादयः । स्रौघ्नः । गव्यः । नादेयः । ग्राम्यः ॥ विद्यायोनिसंबन्धादक ॥। ६ । ३ । १५० ॥ सत आगते । आचार्य्यकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैठ्कम् ॥
ऋत इकण् ॥ ६ ॥ ३ । १५२ ॥ विद्यायोनिसंबन्धार्थात्ततः आगते । हौतुकम् । मातृकम् ॥
आयस्थानात् || ६ । ३ । १५३ ॥ स्वामिग्राह्योभागोयत्रोत्पद्यते, तदर्थात्सत आगते इकण । आतरिकम् ॥ शुण्डिकारण् ॥ ६ ॥ ३ ॥ १५४ ॥
तत आगते । शौण्डिकम् । औदपानम् ॥
गोत्रादङ्कवत् ॥ ६ ॥ ३ । १५५ ॥
तत आगते प्रत्ययः । बैदम् । औपगवकम् ॥
I
( २१९ )
नृहेतुभ्यो रूप्यमय टौवा || ६ | ३ | १५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । चैत्रीयम् । समरूप्यम् । सममयम् । समीयम् ॥ प्रभवति ॥। ६ । ३ । १५७ ॥
पश्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा ॥ वैडूर्यः ॥ ६ । ३ । १५८ ॥
निपात्यते । वैडूर्योमणिः ॥
1
त्यदादेर्मयट् ॥ ६ । ३ । १५९ ॥