________________
(२)
श्रीसम्
ये वर्णे ।। ३ । २ । १०० ॥
प्रत्यये नासिकाया नस् । नस्बम् ॥
शिरसः शीर्षन् ॥ ३ । २ । १०१ ॥
ये । शीर्षण्यः स्वरः ॥
केशे वा ॥ ३ । २ । १०२ ॥
ये शिरसः शीर्षन् । शोषण्याः शिरस्याः केशाः ॥
नाम्न्युदकात् || ६ । ३ । १२५ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वला ॥
मध्यादिनाण्णेया मोऽन्तश्च ।। ६ । ३ । १२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः ॥
जिह्वामूलाङ्गुलेश्चयः ॥ ६ | ३ | १२७ ॥ मध्याद्भवे । जिह्वामूलीयः । अङगुलीयः । मध्यीयः ॥ वर्गान्तात् ॥। ६ । ३ । १२८ ॥
सप्तम्यन्ताद्भवे ईयः । कवर्गीयो वर्णः ॥
नौ चाशब्दे || ६ | ३ | १२९ ।। वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतवर्यः । भ रतवर्गीयः । शब्देतु कवर्गीयः ॥
दृति कुक्षिकलशिवस्त्यहेरेयण || ६ | ३ | १३० ॥ सप्तम्यन्ताद्भुवे । दार्तें जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् | वास्तेयं पुरीषम् । आहेयं त्रिषम् ॥
आस्तेयम् ॥ ६ । ३ । १३१ ॥