________________
ततिप्रकरणम्......
(२१५)
सप्तम्यन्तात्कालार्थाद्यथाविहितं प्रत्ययः । निशाभवमध्ययनं निशा । तत्रजयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । वार्षिकः ॥
भवे ॥ ६ । ३ । १२३ ॥
सप्तम्ययन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । औत्सः । नादेयः । देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७॥ ४३ ॥
एषां स्वरेष्वादेः स्वरस्य ञ्णिति तद्धिते वृडिमालावाः । दाबिकमुदकम्। दाविकाकूलाः शालयः । शांशपः स्तम्भः । दार्घसत्रम्। श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किम् ? । सौदेविक इत्यत्र निषेधाथै पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थे च । तेनपूर्वदाविकः । अत्र प्राग्ग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः ॥
प्राग्ग्रामाणाम् ॥ ७ । ४ । १७ ॥
प्राग्देशग्रामवाचिनां योऽवयवो दिग्वाची ततः परस्यावयवस्य दिशः परेषां च प्राग्रमावाचिनां ञ्णिति तडिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वकामृत्तिकः । पूर्वैषुकामशमः । पूर्वकान्यकुब्जः ॥ जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७ । ४ । २४ ॥
आणिति तद्धिते स्वरेष्वादेः स्वरस्य नित्यं दृद्धिः । कौरुजङ्गलः | कौरुजाङ्गलः । वैश्वधेनवः । वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥
प्राचां नगरस्य ॥ ७ । ४ । २६ ॥
प्राग्देशार्थस्य नगरान्तस्य णिति तडिते पूर्वोत्तरपदयोः स्वरेवादेः । सौम्हनागरः । प्राचामिति किम् ? | माडनगरः ॥ दिगादिदेहांशाद्यः || ६ T३ । १२४ ॥
सप्तम्यन्ताद्भवे । दिश्यः । अप्सन्यः । मूर्धन्यः ॥