________________
कालायांत् सप्तम्यन्ताद् देये ऋणे । कालापकम्। अश्वत्यकम् ।। यवसकम् । उमाव्यासकम् । ऐषमकमृणम् ॥
प्रीष्मावरसमादकज्ञ ॥६।३। ११५ ॥ कालार्यात्सप्तम्यन्ताइयेऋणे । गृष्मकम् । आवरसमकमृणम् ॥ संवत्सराहग्रहायण्या इकण च ॥६।३।११६ ॥
आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकणकञ् च । सांवत्सरिकम् । सांवत्सरकं । फलं पर्ववा । आग्रहायणिकम् । आग्रहायणकम् । वेत्यकृत्वेकण् चेति विधानमणबाधनार्थम् ॥
साधुपुष्यत्पच्यमाने ॥६।३ । ११७ ॥ सतम्यन्तात्कालविशेषार्थाद्यथाविहितं प्रत्ययाः। हैमनमनुलेपनम्। हैमन्तम् । हैमन्तिकम् । वासन्त्यः कुन्दलताः । ग्रेभ्यः पाटलाः । शारदाः शालयः॥
उस्ते ॥६।३। ११८ ॥ सप्तम्यन्तात्कालार्थायथाविहितं प्रत्ययः । शारदा, यवाः । हैमनाः ॥
आश्वयुज्या अकञ् ॥ ६।३। ११९ ॥ अस्मात्सम्यन्तादुप्तेऽकञ् । आश्वयुजका । माषाः ॥
ग्रीष्मवसन्ताहा ॥६।३। १२० ॥ सप्तम्यन्तादुप्तेऽकश् । ग्रैष्मकं ग्रैष्मं सस्यम् । वासनाकम् । वास-तम् ।।
व्याहरति मृगे ॥ ६ । ३ । १२१ ॥ सप्तम्यन्तात्कालार्थायथाविहितं प्रत्ययः । नैशिको नैशो वा शृगालः । प्रादोषिकः । प्रादोषो वा ।।।
जयिनि च ॥६।३। १२२ ॥