________________
श्रीलघुपनमाम्याकरणम.
वावृतुपिनुषसो यः ॥ ६ ॥ २ । १०९ ॥
सास्य देवतेति विषये ॥ वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् । महाराजप्रोष्ठपदादिकण् ॥। ६ । २ । ११० ॥
सास्य देवतेति विषये ॥ माहाराजिकः । प्रौष्ठपदिकः ॥
( १९६ )
कालाद्भववत् || ६ । २ । १११ ॥
कालविशेषवाचिभ्यो यथा भवे प्रत्ययास्तथा सास्य देवतेति विषयेऽपि स्युः ॥ यथा मासे भवं मासिकम् । प्रावृषि प्रावृषेण्यम् । तथा मासमा देवताकमपि ॥
आदेश्छन्दसः प्रगाथे ॥। ६ । २ । ११२ ।।
प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययः । पाङ्क्तः प्रगाथः । आदेरिति किम् ? | अनुष्टुवमध्यमस्य प्रगार्थस्य ॥ योद्धृप्रयोजनाद्युद्धे || ६ । २ । ११३ ॥
प्रथमान्तात्षष्ठ्यर्थे युद्धे यथाविहितं प्रत्ययः । वैद्याधरं युद्धम् । सौभद्रं युद्धम् ॥
भावघञोऽस्यां णः ॥। ६ । २ । ११४ ॥
प्रथमान्तात् || प्रापाता तिथिः । भावेति किम् ? । प्राकारोऽस्याम् ॥ इयैनंपाता तैलंपाता ॥ ६ । २ । ११५ ॥
श्येनतिलयोः भावघञन्ते पातशब्दे मोन्तो निपात्यते ॥ श्यैनंपाता । तैलंपाता तिथिः । क्रिया भूमिः क्रीडा वा ॥
प्रहरणात् क्रीडायां णः ॥ ६ । २ । ११६ ॥
प्रथमान्तात्सप्तम्यर्थे ॥ दाण्डा क्रीडा । क्रीडायामिति किम् ? | खड्गः प्रहरणमस्यां सेनायाम् ॥