________________
तद्धितप्रकरणम्.
सूक्तम् । आत्वादाविति किम् ? | ब्राह्मप्रजापत्यम् ॥ आतो नेन्द्रवरुणस्य ॥ ७ । ४ । २९ ॥ पूर्वपदात्परस्योत्तरपदस्य स्वरेष्वादेर्बुद्धिः ॥ आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आत इति किम् ? । आग्निवारुणम् ॥
( १९५ )
पैङ्गाक्षीपुत्रादेयः ॥ ६ । २ । १०२ ॥ सास्य देवतेति विषये ॥ पङ्गाक्षोपुत्रीयम् । तार्णविन्दवीर्थं हविः ॥ शुक्रादियः || ६ । २ । १०३ ॥
सास्य देवतेति विषये ॥ शुक्रियं हविः ॥
शतरुद्रात्तौ । ६ । २ । १०४ ॥ सास्य देवतेति विषये ॥ शतरुद्रीयम् । शतरुद्रियम् ॥ अपोनपादपान्नपातस्तृ चातः ॥। ६ । २ । १०५ ॥
सास्य देवतेति विषये इय ईयश्च ॥ अपोनप्त्रीयम् । अपोनष्त्रियम् । अपान्नप्त्रीयम् । अपान्नत्रियम् ॥
महेन्द्राद्वा । ६ । २ । १०६ ॥
सास्य देवतेति विषये तौ ॥ महेन्द्रीयम् । महेन्द्रियम् । माहेन्द्रं हविः ॥ कसोमाद्व्यण || ६ । २ । १०७॥
सास्य देवतेति विषये ।। कार्य हविः । सौम्यं हविः ॥
द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्पति
गृहमेधादीययौ । ६ । २ । १०८ ॥
सास्य देवतेति विषये ॥ द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । शुनासीर्यम् । अग्नीषोमीयम् । अग्नीषोम्यम् । मरुत्वतीयम् । मरुत्वत्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥