________________
समिकरण.
I
सुतंगमादेरि ॥ ६ ॥ २ । ८५ ॥ चातुरर्थिको देशे नानि ॥ सौतंगमिः । मौनिवित्तिः ॥ बलादेर्यः ॥ ६ । २ । ८६ ॥ चातुरर्थिको देशे नाम्नि || बल्यम् । पुल्यम् ॥ अहरादिभ्योऽम् ॥। ६ । २ । ८७ ॥
चातुरर्थिको देशे नाम्नि ॥ आह्नम् । लौमम् ॥
( १९३ )
सख्यादेरेयण् || ६ । २ । ८८ ॥ चातुरर्थिको देशे नाम्नि ॥ साखेयः । साखिदत्तेयः ॥ पन्थ्यादेरायण || ६ । २ । ८९ ॥
चातुरर्थिको देशे नानि ॥ पान्यायनः । निपातनानागमः ।
पाक्षायणः ||
कर्णादेरायनिञ् ॥ ६ । २ । ९० ॥
चातुरर्थिको देशे नाम्नि || कार्णायनिः । वाशिष्ठायनिः ॥ उत्करादेरीयः || ६ । २ । ९१ ॥
चातुरर्थिको देशे नानि ॥ उत्करीयः । सङ्करीयः ॥
नादेः कीयः ॥ ६ । २ । ९२ ॥
चातुरर्थिको देशे नानि ॥ नडकीयः । लक्षकीयः । बिल्वकीया नाम नदी ॥
बिल्वकीयादेरीयस्य ॥ २ । ४ । ९३ ॥
तद्धितयस्वरे लुक् ॥ बैल्वकाः । एवं वैणुकाः । बिल्वकीयादेरिति किम् ? | नाडकीयः ॥
कृशाश्वादेरीयण ॥ ६ । २ । ९३ ॥
चातुरर्थिको देशे नाम्नि || कार्शाश्वीयः । आरिष्टीयः ॥