________________
ततिकरणम्.
( १९१ )
षष्यन्ताद्ययाविहितं प्रत्ययः । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयं न संगीते । शैवम् । वैदिशं पुरम् ||
तदत्रास्ति । ६ । २ । ७० ॥
तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः प्रथमान्तवेदस्तीति प्रत्ययान्तश्चेद्देशानाम || अत्रापीतिकरणोऽनुवर्तते, तेन प्रसिद्धे नाम्नि भूमादौ चार्थे भवति । अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन बाध्यते । औदुम्बरं नगरम् ॥
तेन निर्वृत्ते च । ६ । २ । ७१ ॥
तेनेति तृतीयान्तान्निर्वृत्तेऽर्थे देशे नाम्नि यथाविहितं प्रत्ययः । कौशाम्बी नगरी ॥
नद्यां मतुः || ६ । २ । ७२ ॥ निवासाद्यर्थचतुष्के यथायोगं देशे नानि ॥ नाम्नि ॥ २ । १ । ९५ ॥
मतोर्मो वः ॥
अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३ । २ । ७८ ॥ नाम्नि दीर्घः। उदुम्बरावती । शरावती । अहीवती । मुनिवती । अनजिरादीति किम् ? | अजिरवती । हिरण्यवती ॥
मध्वादेः ॥ ६ । २ । ७३ ॥ चातुरर्थिको मतुर्देशे नान्नि । मधुमान् । बिसबान् ॥ नडकुमुदवेतसमहिषाडित् ॥ ६ । २ । ७४ ॥ चातुरर्थिको मतुर्देशे नान्नि । नड्वान् । कुमुद्वान् ।। न स्तं मत्वर्थे ॥ १ । १ । २३ ॥