________________
( १९०)
श्रीलघुपमभाग्याकरणम्.
विकारे ऽवयवे वा फलेऽण || जाम्बवम् । जम्बु । जम्बूः । लुपि स्त्रीनपुंसकते ॥
न द्विरद्रुवयगोमयफलात् ॥। ६ । २ । ६१ ॥ विकारावयवयोः प्रत्ययः । कापोतस्य विकारोऽवयवो वेति न मयट् | अद्रुवयेत्यादि किम् ? | द्रौवयं खण्डम् । गौमयं भस्म । कापित्यो रसः ॥
पितृमातुर्व्यडुलं भ्रातरि ॥ ६ । २ । ६२ ॥
यथासंख्यम् || पितृव्यः । मातुलः ॥
पित्रोर्डामहट् || ६ । २ । ६३ ।।
पितृमातुः ॥ पितामहः । पितामही । मातामहः । मातामही ॥ अवेर्दग्धे सोढदूसमरीसम् ॥ ६ | २ | ६४ ॥ अविसोढम् | अविदुसम् । अविमरीसम् ॥ राष्ट्रेऽनङ्गादिभ्यः ॥। ६ । २ । ६५ ॥
षष्ठ्यन्तेभ्यो ऽण् । शैवम् । अङ्गादिवर्जनं किम् ? । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥
राजन्यादिभ्योऽकञ् । ६ । २ । ६६ ॥
राष्ट्रे ॥ राजन्यकम् । दैवयातवकम् ॥
वसातेर्वा || ६ । २ । ६७ ॥
राष्ट्रेऽकव् ॥ वासातकम् । वासातम् ॥ भौरिक्यैषुकार्यादेर्विधभक्तम् || ६ । २ । ६८ ॥
राड्रे यथासंख्यम् ॥ भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥
निवासादूरभवे इति देशे नाम्नि ।। ६ । २ । ६९ ॥