________________
Ou.
vvvvvvvvvvvv~~~
(१८४) श्रीलघुहेमभाग्याकरणम्,
न राजन्यमनुष्ययोरके ॥ २।४।९४॥ यो लुक् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् ॥
केदाराण्ण्यश्च ॥६।२ । १३ ॥ समूहेऽकन् । कैदार्यम् । कैदारकम् ॥
कवचिहस्त्यचित्ताच्चेकण ॥ ६ । २ । १४ ॥ केदारात् समूहे ॥ कावचिकम् । हास्तिकम् । आपूपिकम् । शाष्कुलिकम् । कैदारिकम् ॥
धेनोरनञः ॥६।२। १५॥ समूहे इकण ॥
ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ॥ ७।४ । ७१ ॥ धैनुकम् । अनत्र इति किम् ? । आधैनवम् ॥
ब्राह्मणमाणववाडवाद्यः ॥६।२। १६ ॥ समूहे । ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ . गणिकाया ण्यः॥६॥ २॥ १७॥ समूहे । गाणिक्यम् ॥
केशाहा ॥६ । २ । १८॥ समूहे ण्यः ॥ कैश्यम् । कैशिकम् ॥
वाश्वादीयः ॥६।२॥ १९ ॥ समूहे । अश्वीयम् । आश्वम् ॥
पर्वा ड्वण ॥ ६ । २ । २० ॥ समूहे ॥ पार्श्वम्॥