________________
नतिषकरना.
(१८५)
www
ईनोऽहः कतौ ॥६।२। २१॥ समूहे ॥ अहीनः क्रतुः । क्रताविति किम् ? । आरम् ॥
अनीनादव्यहोऽतः ॥७।४।६६ ॥ अपदस्य तडिते लुक् ॥ इत्यतो लुक् ॥
पृष्ठाद्यः॥६।२। २२ ॥ समूहे क्रतौ ॥ पृष्ठ्यः । क्रतावित्येव । पाष्टिकम् ॥
चरणाद्धर्मवत् ॥६।२। २३ ॥ समूहे प्रत्ययः ॥ कठानां धर्मः काठकम् । तथा समूहेऽपि ॥
गोरथवातात्त्रल्कटथलूलम् ॥६।२।२४॥ समूहे यथासंख्यम् ॥ गोत्रा । रथकव्या । वातूलः ॥
पाशादेश्च ल्यः॥६।२ । २५ ॥ गवादेः समूहे ॥ पाश्या । तृण्या। गव्या । रथ्या । वात्या ।।
इवादिभ्योऽञ् ॥६।२। २६ ॥ समहे ॥ शौवम् । आह्नम् ॥
खलादिभ्यो लिन् ॥६।२ । २७ ॥ समूहे ॥ खलिनी । पाशादित्वाल्ल्योऽपि । खल्या । उकिनी ॥
ग्रामजनबन्धुगजसहायात्तल् ॥६।२।२८॥ समूहे ॥ ग्रामता । जनता । बन्धुता । गजता । सहायता ॥ पुरुषात्कृतहितवधविकारे चैयञ् ॥ ६ । २। २९ ॥
समूहे ॥ पौरुषेयो ग्रन्थः । पौरुषेयमाहेत शासनम् । पौरुषेयो बषो विकारो वा । पौरुषेयम् ॥
विकारे ॥६॥२॥ ३० ॥ षष्ठ्यन्ताद् यथाविहितं प्रत्ययाः॥