________________
( १८२ )
श्रीलघुहेमप्रभाव्याकरणम्.
युवार्थस्य लुप् ॥ औदुम्बरिः । औदुम्बरायणः ॥
अब्राह्मणात् । ६ । १ । १४१ ।।
वृद्धप्रत्ययान्ताद्यु॒वार्थस्य लुप् ।। आङ्गः पिता । आङ्गः पुत्रः । अब्राह्मणादिति किम् ? । गार्ग्यः पिता । गार्ग्यायणः पुत्रः || पैलादेः ॥ ६ । १ । १४२ ॥
यूनि प्रत्यस्य लुप् || पैलः पिता पुत्रश्च । शालङ्गिः पिता पुत्रश्च ॥ प्राच्ये ऽञोऽतौल्वल्यादेः || ६ | १ | १४३ ॥
यूनि प्रत्ययस्य लुप् ॥ पान्नागारिः पिता पुत्रश्च । मान्थरषेणिः पिता पुत्रश्च ॥ प्राच्य इति किम् ? । दाक्षिः पिता । दाक्षायणः पुत्रः ॥ तौल्वल्यादिवर्जनं किम् ? । तौल्वलिः पिता । तौल्बलायनः पुत्रः ॥ 1 ॥ इत्यपत्याधिकारः ॥
॥ अथ रक्ताद्यर्थकाः ॥
रागा रक्ते । ६ । २ । १॥
रज्यते येन कुसुम्भादिना तदर्थात्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः । कौसुम्भं वासः ॥
लाक्षारोचनादिकण् ॥ ६ ॥ २ । २ ॥
टान्ताद्रक्ते । लाक्षिकम् । रौचनिकम् ॥
शकलकर्दमाद् वा ।। ६ । २ । ३ ॥ टान्ताद्रक्त इण् । शाकलिकम | शाकलम् । कार्दमिकम् । कार्दमम् ॥ नीलपीतादकम् || ६ । २ । ४॥
टान्ताद्रक्ते यथासंख्यम् | नीलम् । पीतकम् ॥