________________
(१७८)
श्रीलघुहेममभाव्याकरणम
अपत्ये आयनिक ॥ कायणिः ॥ --
वृद्धिर्यस्य स्वरेष्वादिः ॥६।१।८॥ स दुसंज्ञः ॥
___ अवृद्धादोन्नवा ॥ ६ । १ । ११० ॥ अपत्ये आयनिञ् ॥ आम्रगुप्तायनिः । आम्रगुप्तिः ॥
वाशिन आयनौ ॥ ७ । ४ । ४६ ॥ अन्त्यस्वरादे ग न ॥ वाशिनायनिः ॥
पुत्रान्तात् ॥ ६ । १। ११ ॥ दोरपत्ये आयनित्र वा ॥ गार्गीपुत्रायणिः । गार्गोपुत्रिः ॥
चमिवर्मिगारेटकार्कटयकाकलडावाकिनाच कश्चान्तोऽन्त्यस्वरात् ॥ ६ । १ । ११२ ॥
पुत्रान्ताद्दोरायनिञ् वा ॥ चार्मिकायणिः । चार्मिणः । वार्मिकायणिः । वार्मिणः । गारेटकायनिः। गारेटिः। कार्कव्यकायनिः । काकव्यायनः। काककायनिः । काकिः। लाङ्काकायनिः। लाङ्केयः । वाकिनकायनिः । वाकिनिः । गार्गीपुत्रकायणिः । गार्गीपुत्रिः ॥
अदोरायनिः प्रायः ॥६।१ । ११३ ।। अपत्ये वा ॥ ग्लुचुकायनिः । ग्लौचुकिः । प्रायः किम् ?।दाक्षिः । अदोरिति किम् ? । औपगविः ॥
राष्टक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥६।१।११४॥
यथासंख्यम् । वैदेहः । वैदेही । विदेहाः राजानोऽपत्यानि वा ॥ सरूपादिति किम् ? । दाशरथिः ॥
गान्धारिसाल्वेयाभ्याम् ॥ ६ । १ । ११५ ॥