________________
वद्धिप्रकरणम्.
रेवत्यादेरिकण || ६ | १ | ८६ ॥
अपत्ये ॥ रैतिकः । अवनालिकः ॥
वृद्धस्त्रियाः क्षेपे णश्च ॥। ६ । १ । ८७ ॥
अपत्ये इक ॥
तद्धितस्वरेऽनाति ॥ २ । ४ । ९२ ॥ व्यञ्जनादपत्ययस्य तद्धिते लुक् ॥ गार्गी गार्गिको वा जाल्मः ॥ भ्रातुर्व्यः ॥। ६ । १ । ८८ ॥
अपत्ये ॥ भ्रातृव्यः ॥
ईयः स्वसुश्च ॥ ६ ॥ १ । ८९ ॥ भ्रातुरपत्ये ॥ भ्रात्रीयः । स्वस्त्रीयः ॥
( १७५ )
मातृपित्रादेर्डेयणीयणौ ॥। ६ । १ । ९० ॥
स्वरपत्ये || मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ॥
श्वशुराद्यः || ६ । १ । ९१ ॥
अपत्ये ॥ श्वशुर्यः । सम्बन्धिनां सम्बन्धे । स्वशुरो नाम कश्चित् तस्यापत्यं श्वशुरः ॥
जातौ राज्ञः ॥ ६ ॥ १ । ९२ ॥
अपत्ये यः ॥
अनोsटये ये ॥ ७ । ४ । ५१ ॥ अन्त्यस्वरादेर्लुगू न ॥ राजन्यः क्षत्रिय जातियेत् । अटय इति
किम् ? | राज्यम् ॥
क्षत्रादियः ॥ ६ । १ । ९३ ॥
अपत्ये जातौ ॥ क्षत्रियो जातियेत् ॥