________________
( १७० )
श्रीलघुमभाव्याकरणम्.
वृद्धे ॥ नाडायनः । चारायणः | आमुष्यायणः ॥ दण्डहस्तिनोरायने ॥ ७ । ४ । ४५ ॥
अन्त्यस्वरादेर्लुग् न ॥ दाण्डिनायनः ॥ हास्तिनायनः ॥ यञिञः ॥। ६ । १ । ५४ ॥
वृद्धे यून्यायनम् ॥ गार्ग्यायणः । दाक्षायणः ॥ हरितादेरञः ॥। ६ । १ । ५५ ॥
विदाद्यन्तर्गणो हरितादिः ॥ वृद्धे योऽम् तदन्ताद्यून्यायनन् । हारितायनः । कैन्दासायनः ॥
क्रोष्टुशलङ्कोर्लुक् च ॥ ६ | १ | ५६ ॥ वृद्धे आयनण् ॥ क्रोष्टायनः । शालङ्कायनः ॥
दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगग्यवाशिष्ठभार्गववात्स्ये ।। ६ । १ । ५७ ॥
वृद्धे यथासंख्यमायनणू || दार्भायण आग्रायणः । कार्ष्णायनो ब्राह्मणः । आग्निशर्मायणी वार्षगण्यः । राणायनो वाशिष्टः । शारदतायनो भार्गवः । शौनकायनो वात्स्यः ॥
जीवन्तपर्वताद्वा ॥ ६ । १ । ५८ ॥
वृद्धे आयनण् ॥ जैवन्तायनः । जैवन्तिः । पार्वतायनः । पार्श्वतिः ॥ द्रोणाद्वा ।। ६ । १ । ५९ ॥
अपत्यमात्रे आयन || द्रौणायनः । द्रौणिः ॥ शिवादेरण || ६ । १ । ६० ॥
अपत्ये ॥ शैवः । प्रौष्टः ॥
ऋषिवृष्ण्यन्धककुरुभ्यः ॥ ६ । १ । ६१ ॥