________________
( १६६ )
श्रीलघुमभाग्याकरणम्.
दौती णिति तडिते । दौवारिकः । श्वादेरितीतिप्रतिषेधादारादिपूर्वाणामपि । दौवारपालिः ||
न अस्वङ्गादेः ।। ७ । ४ । ९॥
ञ्णिति तद्धिते वः मागैदौतौ । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ।। श्वादेरिति ॥ ७ । ४ । १० ॥
ञ्णिति तद्धिते वः प्रागौर्न । श्वाभस्त्रिः । इतीति किम् ? | शौवहानम् ॥
इञः ॥ ७ । ४ । ११ ॥
श्वादेवः प्रागौन ञ्णिति तद्धिते । श्वाभस्त्रम् ॥
बाह्वादिभ्यो गोत्रे || ६ । १ । ३२ ॥
अपत्ये इन् । स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरनुषिर्वा यः प्रथमस्तदपत्यं गोत्रम् । वाहविः । औपवाकविः । नैवाकविः । I इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः ॥ शीर्षः स्वरेतेि ॥ ३ । २ । १०३ ॥
शिरसः ॥ हास्तिशीर्षः ॥ :
वर्मणोऽचक्रात् || ६ । १ । ३३ ॥
अपत्ये इब् । ऐन्द्रवर्मिः । अचक्रादिति किम् ? । चाक्रवर्मणः । अनो लोपे प्राप्ते ||
अणि ॥ ७ । ४ । ५२ ॥
अन्नन्तस्यान्त्यस्वरादेर्लुग् न ॥ इति निषेधः ॥
संयोगादिनः ॥ ७ । ४ । ५३ ॥ संयोगात्परो य इन् तदन्तस्यान्त्यस्वरादेरणि लुग् न । शांखिनः ॥ गाथिविदथि केशिपणिगणिनः ॥ ७ । ४ । ५४ ॥