________________
समासप्रकरणम्.
उत्तरपदे इस्वः ॥ मालभारी। उत्पलमालभारी । मालभारिणी। • इपीकतूलम् । मुझेषीकतूलम् । इष्टकचितम् । पक्वेष्टकचितम् ॥
गोण्या मेये ॥ २।४ । १०३ ॥ इस्वः ॥ गोण्या मितो गोणिः ॥ इति समासाश्रयविधयः ॥
॥ अथ सर्वसमासशेषः ॥ कृत्तडितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधायिनी वृत्तिः । विग्रहो वृत्त्यर्थप्रतिपादकं वाक्यम् । स च लौकिकोऽलौकिकश्चेति द्विधा । लौकिको यथा, राज्ञः पुरुष इति । अयं साधुः परिनिष्ठितत्वात् । अलौकिकः, राजन् अस् पुरुष स् इति । अयञ्च प्रयोगानहत्वादसाधुः। समासः कचिन्नित्यः कचिद्वैकल्पि
हत्वादसा | M alai कः। अविग्रहः स्वघटकयावत्पदाघटितविग्रहो वा नित्यसमासः । यथा उन्मत्तगङ्गम् । हरौ इति अधिहरि, इत्यादि । तदितरो वैकल्पिकः । यथा राज्ञः पुरुषः, राजपुरुष इत्यादि । समासश्चतुर्डेति तु प्रायोवादः । बहुव्रीह्यव्ययीभावतत्पुरुषद्वन्दाधिकारबहिर्भूतानामपि विस्पष्टपटुरित्यादीनां समासानां विधानात् । पूर्वपदार्थप्रधानो ऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्रवादः प्रायोऽभिप्राय एव । शाकप्रति उन्मत्तगङ्गमित्याद्यव्ययीभावे निष्कौशाम्बिरित्यादौ तत्पुरुषे त्रिचतुरा इत्यादिबहुव्रीहौ पाणिपादमित्यादिद्वन्द्वे च तत्त्वाभावात् । किन्तु वक्ष्यमाणरीत्या षड्विधाः समासाः। स्याद्यन्तस्य स्यान्तेन, राजपुरुषः । त्याद्यन्तेन, अनुव्यचलत् । नाना, कुम्भकारः । धाना, अजस्रम् । त्याद्यन्तस्य त्याधन्तेन अनीतपिबता । स्याद्यन्तेन, कुरुकटः । तत्पुरुषविशेषः कर्मधारयः। तद्विशेषो द्विगुः । अनेकपदत्वं बन्दबहुव्रीह्योरेव । तत्पुरुषस्य कचिदेव । बहुव्रीहिर्द्विविधः । तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च । अवयवार्थः क्रियान्वयी यस्य स