________________
समासप्रकरणम्. (१५९) भीष्ठानम् । अङ्गुलिषङ्गः॥
निष्प्राग्रेऽन्तःखदिरकाम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य ॥ २।३। ६६ ॥ नस्य णः । निर्वगम् । प्रवणम् । इत्यादि।
द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः॥२॥ ३।६७॥
वनस्य नस्य णः॥ दूर्वावणम् । दूर्वावनम् । नीवारवणम् । नीवारवनम् । शिवणम् । शिग्रवनम्। शिरीषवणम् । शिरीषवनम् ॥ अनिरिकादिभ्य इति किम् ? । इरिकावनम् । मिरिकावनम् ॥
गिरिनद्यादीनाम् ।। २।३।६८॥ नस्य णो वा ॥ गिरिणदी। गिरिनदी। गिरिणखः । गिरिनखः ॥
पानस्य भावकरणे ॥ २।३ । ६९॥ पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य नस्य णो वा ॥ क्षीरपाणं क्षीरपानं स्यात् । क्षीरपाण क्षीरपानं भाजनम् ॥
देशे ॥ २ । ३ । ७०॥ पूर्वपदस्थाद्रप्रवर्णात् पानस्य नस्य नित्यं णः ॥ क्षीरपाणा उशीनराः। तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते । देश इति किम् । क्षीरपाना गोपालकाः ॥
ग्रामामान्नियः॥ २।३। ७१ ॥ नस्य णः । ग्रामणीः । अग्रणीः ॥
वाह्याहाहनस्य ॥ २।३। ७२ ॥ .. वोढव्यं वाह्यम् । तदाचिनो रेफादिमतः पूर्वपदावाहनस्य नस्य