________________
www
vvvwwwnoarvvvvvvvv
( १५८) श्रीलघुहेमप्रभाव्याकरणम्,
गवियुधेः स्थिरस्य ॥ २।३ । २५ ॥ सस्य षः समासे नाम्नि ॥ गविष्ठिरः ! युधिष्ठिरः ॥
एत्यकः ॥ २।३।२६ ॥ . नाम्यन्तस्थाकवर्गा सस्य षः समासे नाम्नि ॥ हरिषेणः । अकः किम् ? । विष्वक्सेनः ।
भादितो वा ॥ २।३ । २७ ॥ सस्य षः समासे नाम्नि एकारे ॥रोहिणिषेणः । रोहिणिसेनः । इतः किम् ? । पुनर्वसुषेणः॥
विकुशमिपरेः स्थलस्य ॥२।३।२८॥ सस्य षः समासे ॥ विष्ठलम् ? कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ।।
कपेगोत्रे ॥ २।३। २९ ॥ स्थलस्य सस्य समासे षः ॥ कपिष्ठलो नाम गोत्रस्य प्रवर्तयिता ।।
गोऽम्बाऽऽम्बसव्यापहित्रिभूम्यग्निशेकुशकुक्कङ्गुमञ्जिपुञ्जिबर्हिःपरमेदिवेः स्थस्य ॥ २।३ । ३०॥
सस्य षः समासे ॥ गोष्ठम् । अम्बाष्ठः । ड्यापो बहुलं नानीति इस्वत्वे अम्बष्टः। श्लिष्टनिर्देशादुभाभ्यामपि । आम्वष्ठः । सव्यष्ठः इत्यादि ॥
निर्दुस्सोः सेधसन्धिसाम्नाम् ॥ २।३। ३१ ॥ सत्य षः समासे ॥ निःषेधः । दुःषेधः । सुषेधः । इत्यादि ।
प्रष्ठोऽप्रगे ॥ २।३।३२॥ निपात्यते ॥ प्रष्ठः । प्रस्थोऽन्यः ॥
भीरुष्ठानादयः ॥ २।३। ३३ ॥