________________
समासप्रकरणम्..
(१५५)
RANAMAn/NAVYAAMANANAANANNY
काक्षः । कापथम् ॥
पुरुषे वा ॥३।२। १३५॥ कोः काः ॥ कापुरुषः । कुपुरुषः ॥
__ अल्पे ॥ ३ । २ । १३६ ॥ कोरुत्तरपदे काः ॥ कामधुरम् । काम्लम् ॥
काकवौ वोष्णे ।। ३।२। १३७ ॥ कोः ॥ कोष्णम् । कवोष्णम् । बहुव्रीहौ तु कूष्णो देशः ॥
कृत्येऽवश्यमो लुक् ॥ ३।२। १३८ ॥ अवश्यकार्यम् ॥ कृत्य इति किम् ? । अवश्यंलावकः ॥
समस्ततहिते वा ॥३।२ । १३९ ॥ लुर ॥ सततम् । सन्ततम् । सहितम् । संहितम् ॥
तुमश्च मनःकामे ॥३।२ । १४० ॥ समो लुक् ॥ भोक्तुमनाः । गन्तुकामः । समनाः । सकामः ॥
मांसस्यानड्पनि पचि नवा ॥ ३ । २ । १४१ ॥ लुक् ॥ मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः ।।
दिक्शब्दात् तीरस्य तारः ॥ ३ । २ । १४२ ॥ वा ॥ दक्षिणतारम् । दक्षिणतीरम् ॥
सहस्य सोऽन्यार्थे ॥३।२३ १४३ ॥ उत्तरपदे वा॥ पुत्रेण सह सपुत्रः। सहपुत्रः। अन्याथे किम् ? । सहजः ॥
नाम्नि ॥३।२ । १४४ ॥ अन्यार्थे उत्तरपदे सहस्य सः॥ साश्वत्थं वनम् । अन्यार्थ