________________
( १४६ )
श्रीलघुहेमभाव्याकरणम्.
सति न सम्बन्धिन्याः षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे न लुप् ।। होतुः पुत्रः । होतुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । ऋतामिति किम् ? । आचार्यपुत्रः । विद्यायोनिसम्बन्धे इति किम् ? । भर्तृगृहम् ॥
स्वसृपत्योर्वा ॥ ३ । २ । ३८ ॥
विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ट्या योनिसम्बन्धनिमित्तयोरुत्तरपदयोर्लुब् न ॥ होतुःस्वसा । होतृस्वसा । स्वसुः पतिः । स्वसृपतिः। विद्यायोनिसम्बन्ध इत्येव । भर्तृस्वसा । होतृपतिः ॥ मातृपितुः स्वसुः ॥ २ । ३ । १८ ।।
सस्य समासे षः ॥ मातृष्वसा । पितृष्वसा ॥ अलुपि वा ॥ २ । ३ । १९ ॥
मातृपितु: स्वसुः सस्य समासे षः ॥ मातुः ष्वसा । मातुःस्वसा । पितुःष्वसा । पितुःस्वसा ॥ इत्यलुक्समासः ॥
॥ अथ समासाश्रयविधयः ॥
आ द्वन्द्वे ।। ३ । २ । ३९ ॥
विद्यायोनिसम्बन्धे निमित्ते सति प्रवर्त्तमानानामृतामुत्तरपदे पूर्वपदस्य || होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौं । विद्यायोनिसम्बन्ध इत्येव । कर्तृकारयितारौ ॥
पुत्रे ॥ ३ । २ । ४० ॥
उत्तरपदे विद्यायोनिसम्बन्धे निमित्ते सति ऋतामाः । मातापुत्रौ । sharyat |
वेदसहश्रुताऽवायुदेवतानाम् ॥ ३ । २ । ४१ ।।