________________
( १४२ )
श्रोलघुमभाव्याकरण.
समासान्तोऽत् । प्रत्युरसम् । सप्तम्या इति किम् ? | प्रत्युरः ॥ अक्ष्णोऽप्राण्यङ्गे ॥ ७ । ३ । ८५ ॥
समासान्तोऽत् । लवणाक्षम् । अप्राण्यङ्गे इति किम् ? । अजाक्षी ॥ सङ्कटाभ्याम् ॥ ७ । ३ । ८६ ॥
अक्ष्णः समासान्तोऽत् । समक्षम | कटाक्षः ॥ ॥ इति समासान्ताः ॥
न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥ ३ । २ । ९ ॥ लुप् । स्त्रियंमन्यः । नावंमन्यः । नामीति किम् ? | क्ष्मंमन्यः । एकस्वरादिति किम् ? | वर्धुमन्यः । खितीति किम् ? | स्त्रीमानी ॥ असत्त्वे ङसेः ॥ ३ । २ । १० ।।
उचरपदे न लुप् । स्तोकान्मुक्तः । असत्वे इति किम १ । स्तोकभयम् । उत्तरपद इत्येव । निःस्तोकः ॥
ब्राह्मणाच्छंसी ॥ ३ । २ । ११ ॥
अत्र ङसेलुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥
ओजोऽञ्जः सहोम्भस्तमस्तपसष्टः ॥ ३ । २ । १२ ॥
उत्तरपदे परे न लुप् । ओजसाकृतम् । अञ्जसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । ट इति किम् ? । ओजोभावः ॥ पुञ्जनुषोऽनुजान्धे ॥ ३ । २ । १३ ॥
टो न लुर् । पुंसानुजः । जनुषान्धः । ट इत्येव । पुमनुजा ॥ आत्मनः पूरणे || ३ । २ । १४ ॥