________________
समासप्रकरणम्..
( १३९ )
चवर्गदहः समाहारे ॥ ७ । ३ । ९८ ॥
1
द्वन्द्वादत्समासान्तः । वाक्तत्वचम् | सम्पद्विपदम् । वात्विषम् । छत्रोपानहम् । समाहार इति किम् । प्राट्टशरद्भ्याम् ॥
॥ इति इन्द्रः ॥
॥ अथैकशेषः ॥
भ्रातृपुत्राः स्वसृदुहितृभिः ॥ ३ । १ । १२१ ॥ सहोक्तौ शिष्यन्ते । बहुवचनं पर्यायार्थम् । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥
पिता मात्रा वा ॥ ३ । १ । १२२ ॥ सहोक्तावेकः शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥ श्वशुरः श्वश्रूभ्यां वा ।। ३ । १ । १२३ ।। सहोक्तावेकः शिष्यते ॥ श्वशुरौ । श्वश्रूश्वशुरौ ॥
वृद्धो यूना तन्मात्रभेदे ॥ ३ । १ । १२४ ॥ सोक्त शिष्यते । गायव गार्ग्यायणश्च गाग्यौं । वृद्ध इति किम् ? । गर्गगार्ग्यायणौ । यूनेति किम् ? । गार्ग्यगगौं । तन्मात्रभेद इति किम् ? | गार्ग्यवात्स्यायनौ ||
स्त्री पुंवच ॥ ३ । १ । १२५ ॥
वृद्धो यूना सहोतौ शिष्यते तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च गाग्यौं । गार्गी च गार्ग्यायणौ गर्गाः । तान् गर्गान् ॥
पुरुषः स्त्रिया ॥ ३ ।
१ । १२६ ॥ सहोक्तावेकः शिष्यते तन्मात्रभेदे । पुरुषशब्दः प्राणिनि पुंसि