________________
श्रीलघुहेमप्रभाव्याकरणम्.
( १३८ )
राः । देवसुरम् ॥
नदीदेशपुरां विलिङ्गानाम् || ३ | १ | १४२ ॥ स्वैर्द्वन्द्व एकार्थः । गङ्गाशोणम् । कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । विलिङ्गानां किम् ? । गङ्गायमुने ॥
पात्र्यशूद्रस्य ॥ ३ । १ । १४३ ॥
स्वैर्द्वन्द्व एकार्थः । तक्षायस्कारम् । पात्र्येति किम् ? | जनङ्गमबुकसाः ॥ गवाश्वादिः ॥ ३ । १ । १४४ ॥
द्वन्द्व एकार्थः । गवाश्वम् । गवाविकम् ॥
न दधिपयआदिः ॥ ३ । १ । १४५ ॥ इन्द्र एकार्थः । दधिपयसी । सर्पिर्मधुनी ॥ सङ्ख्याने || ३ । १ । १४६ ॥
वर्त्तिपदार्थानां द्वन्द्व एकार्थों न । दश गोमहिषाः । बहवः पाणिपादाः ॥
वान्तिके ॥ ३ । १ । १४७ ॥
वर्त्तिपदार्थानां सङ्ख्यानस्य गम्ये द्वन्द्व एकार्थः । उपदर्श गोमहिषम् । उपदशा गोगहिषाः ॥
ऋक्सामर्ग्यजुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवा हर्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् ॥ ७ । ३ । ९७ ॥
एते द्वन्द्वा अदन्ता निपात्याः । ऋक्सामे । ऋग्यजुषम् । धेन्वनहम् । वामनसे । अहोरात्रः । रात्रिंदिवम् । नक्तंदिवम् । अहर्दिवम् । ऊर्बष्ठीवम् । पदष्ठीवम् । अक्षिभ्रुवम् । दारगवम् ॥