________________
.
समासमकरण
(१३७)
फलस्य जातौ ॥३।१ । १३५ ॥ बर्थस्य स्वैर्द्वन्द्र एकार्थों नित्यम्। बदरामलकम् । जातो किम् ?। एतानि बदरामलकानि सन्ति ॥ ..
अप्राणिपश्वादेः ॥ ३ । १ । १३६ ॥ द्रव्यवाचिनो जात्यर्थस्य स्वैर्द्वन्द्व एकार्थ: । आराशस्त्रि । जातावित्येव । सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ?। ब्राह्मणक्षत्रियविट्शूद्राः २। गोमहिषौ २ । प्लक्षन्यग्रोधौ । २॥ अश्वरथौ २ । बदरामलके २ ॥
प्राणितूङ्गिाणाम् ॥ ३।१ । १३७ ॥ स्वैर्द्वन्द्व एकार्थः । कर्णनासिकम् । मार्दङ्गिकपाणविकम् । स्वैरित्येव । पाणिगृध्रौ ॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥३।१ । १३८ ॥
कर्तृत्वेन सम्बन्धिनः स्वैर्द्वन्द्व एकार्थः । प्रत्यष्ठात् कठकालापम् । उदगात्कठकौथुमम् । अनुवाद इति किम् ? । उदगुः कठकालापाः। अमसिद्धं कथयति ॥ __ अक्लीबेऽध्वर्युक्रतोः॥३।१ । १३९ ॥
स्वैर्द्वन्द्व एकार्थः । अर्काश्वमेधम् । अक्लीब इति किम् ? । गवामयनादित्यानामयने । अध्वर्युग्रहणं किम् ?। इधुवज्रौ । क्रतोः किम् ?। दर्शपौर्णमासौ ॥
निकटपाठस्य ॥ ३ । १ । १४०॥ स्वैर्द्वन्द्व एकार्थः । पदकक्रमकम् ॥
नित्यवैरस्य ॥३।१।१४१ ।। स्वैर्द्वन्द एकार्थः। अहिनकुलम् । नित्यवरस्येति किम् ? । देवासु