________________
(१३६)
श्रीलमुहेसमभामाकरणम्.
-
wwwwwwwwwwwwwwww
यथापरमेव लिनं भवति । सा च चैत्रश्च तौ। परलिङ्गो बद्रोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैष न्याय्येति ते कुक्कुटमयूयौं ॥
पुष्यार्थाने पुनर्वसुः ॥ ३।१ । १२९ ।।
सहोक्तौ यर्थः सन्नेकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । भ इति किम् ? । पुष्यपुनर्वसवो बालाः ॥ विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ॥३।१।१३०॥
एकार्थः स्यात् । सुखदुःखम् । सुखदुःखे। लाभालाभम् । लाभालाभौ । विरोधिनामिति किम् ? । कामक्रोधौ । अद्रव्याणामिति किम् ? । शीतोष्णे जले । स्वैरिति किम् ? । बुद्धिमुखदुःखानि । सर्वमिदं विकल्पानुक्रमणं नियमार्थम् । विरोधिनामेवाद्रव्याणामेव स्वैरेवेति च । तथा च प्रत्युदाहरणे इतरेतरयोग एष ॥ अश्ववडवपूर्वापराधरोत्तराः ।। ३ । १ । १३१ ॥
त्रयो द्वन्द्वा एकार्था वा स्युः स्वैश्वेत् । अश्ववडवम् । अश्ववडवौ। पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥
पशुव्यञ्जनानाम् ॥ ३ । १ । १३२ ॥ स्वैर्द्वन्द्व एकार्थों वा। गोमहिषम् । गोमहिषौ । दधिघृतम्। दधिघृते ।। तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३।१ । १३३ ॥
प्रत्येकं स्वैर्द्वन्द्व एकार्थों वा। प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः। कुशकाशम् । कुशकाशाः। तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यणाः । हंसचक्रवाकम् । हंसचक्रवाकाः॥
सेनाङ्गक्षुद्रजन्तूनाम् ॥३।१।१३४॥ बहर्थानां स्वैर्द्वन्द्व एकार्थों नित्यम् । अश्वरथम् । यूकालिक्षम् ॥