________________
समासप्रकरणम्.
( १३५ )
बात । प्लक्षन्यग्रोधौ ! वाक्तत्वचम् । नाम नाम्नेत्युक्तावपि लघ्वक्षरादिसूत्रे एकग्रहणाद् बहूनामपि । धवखदिरपलाशाः । चार्थ इति किम् ? । वीप्सासहोक्तौ मा भूत् । ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? । प्लक्षच न्यग्रोधश्च वीक्ष्येताम् ॥
धर्मार्थादिषु द्वन्द्वे || ३ । १ । १५९ ॥
I
अमाप्तमात्वं वा प्राक् । धर्मार्थों । अर्थधर्मौ । शब्दार्थों । अर्थशब्दौ ॥
लध्वक्षरासखीदुत्स्वराद्यदल्पस्वराच्यमेकम् ||
३ । १ । १६० ।
द्वन्द्वे प्राक् । शरशीर्यमः । अग्नीषोमौ । वायुतोयम् । असखीति किम् ? । सुतसखायौ । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लघ्वादीति किम् ? | कुक्कुटमयूरौ । मयूरकुक्कुटौ । एकमिति किम ? | शङ्खदुन्दुभिवीणा | द्वन्द्व इत्येव । विस्पष्टपटुः ||
मासवर्णभ्रानुपूर्वम् ॥ ३ । १ । १६१ ॥
द्वन्द्वे प्राक। फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेव ॥
भर्तुतुल्यस्वरम् || ३ । १ । १६२ ॥
द्वन्द्वेऽनुपूर्वं प्राक् । अश्विनीभरणीकृत्तिकाः । हेमन्तशिशिर - वसन्ताः । तुल्यस्वरमिति किम् ? । आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥ त्यदादिः ॥ ३ । १ । १२० ।।
एवैकः शिष्यते त्यदादिनान्येन च सहोक्तौ । स च चैत्रश्च तौ । त्यदादीनां मिथः सहोक्तौ स्पर्धे परमिति परमेव शिष्यते । स च यच यौ । अहं च स च त्वं च वयम् । बहुलाविकारात् कचित्पूर्वमपि । स च यश्व तौ । स्त्रीपुंनपुंसकानां सह वचने स्यात्परं लिङ्गमिति