________________
( १३४ )
श्रीलघुहेमभाव्याकरणम्.
महतः करघासविशिष्टे डाः ॥ ३ । २ । ६८ ॥
wwww
वोत्तरपदे । महाकरः । महत्करः । महाघासः । महद्वासः । महाविशिष्टः । महद्विशिष्टः ॥
महतः करादावुत्तरपदे नित्यं डाः
महाविशिष्टः ॥
स्त्रियाम् || ३ । २ । ६९ ॥
wwwwwwwwwwwwww
महाकरः । महाघासः ।
जातीयैकार्थेऽच्वेः ॥ ३ । २ । ७० ॥
महत उत्तरपदे डाः । महाजातीयः । महावीरः । जातीयैकार्थे इति किम् ? | महत्तरः | अच्छेरिति किम् ? | महद्भूता कन्या ॥ न पुंवन्निषेधे ॥ ३ । २ । ७१ ॥
महत उत्तरपदे डाः । महतीप्रियः । इभ्रूणां छाया इक्षुच्छायमित्यादिषु लिङ्गविशेषव्यवस्था तु लिङ्गानुशासनादवसेया ॥ ॥ इति तत्पुरुषः ॥
॥ अथ द्वन्द्वः ॥
चार्थे द्वन्द्वः सहोक्तौ ॥ ३ । १ । ११७ ॥ नाम नाम्ना । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चत्वारश्चार्थाः । तत्रैकमर्थं प्रति ह्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोविनामनियतक्रमयौगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । चैत्रः पचति पठति च । गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । बटो भिक्षामट गां चानय । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । चैत्रश्व मैत्रव घटं कुर्वते । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः । धवश्व खदिरश्च पलाशच तिष्ठति । तत्राद्ययोर्न समासः सहोत्तत्यभा