________________
समासप्रकरणम्.
( १३३ )
श्वसस्तत्पुरुषादत् । निःश्रेयसम् । श्वःश्रेयसम् ॥
नञव्ययात् सङ्ख्याया डः ॥ ७ । ३ । १२३ ॥ तत्पुरुषात् । अदशाः । निस्त्रिंशः खड्गः ॥ सङ्ख्याव्ययादङ्गुलेः ॥ ७ । ३ । १२४ ॥
तत्पुरुषाड्डः । द्व्यङ्गुलम् । निरङ्गुलम् ||
नस्तत्पुरुषात् ॥ ७ । ३ । ७१ ॥
समासान्तो न । अनृक् । अराजा । तत्पुरुषादिति किम् ? | अधुरं शकटम् ॥
पुंवत्कर्मधारये || ३ | २ | ५७ ॥
परत: स्त्री अनूङ् स्त्र्येकार्थे उत्तरपदे । प्रतिषेधनिवृत्यर्थ आरम्भः । कल्याणप्रिया । मद्रकभार्या । माथुरवृन्दारिका । चन्द्रमुखन्दारिका । वातण्ड्यवृन्दारिका । परतः स्त्रीत्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूनृन्दारिका ॥
क्वचित् ॥ ३ । २ । ६० ॥
परतः स्त्र्यनृङ् पुंवत् । महद्भूता कन्या । क्वचिदिति किम् ? | गोमती भूता ॥
सर्वादयोऽस्यादौ ॥ ३ । २ । ६१ ॥
परत: स्त्रियः पुंवत् । सर्वस्त्रियः । भवत्पुत्रः । अस्यादाविति किम् ? | सर्वस्यै । बहुवचनाद् भूतपूर्व सर्वादेरपि । दक्षिणोत्तरपूर्वाणाम् ॥
मृगक्षीरादिषु वा ॥ ३ । २ । ६२ ॥
परत: स्त्री उत्तरपदे पुंवत् । मृगक्षीरम् । काकशावः । काकीशाबः ॥