________________
(१२४)
भील हेमनभाव्याकरणम्
षष्ट्यन्तं गम्ये समासस्तसुषः । उद्दालकपुष्पभलिका । नखलेखकः । क्रीडाऽऽजीवे इति किम् ? । पयसः पायकः ॥
न कर्तरि ॥३।१। ८२॥ या षष्ठी तदन्तमकान्तेन समस्यते । तव शायिका। कर्तरीति किम् ? । इक्षुमक्षिका ॥
कर्मजा तृचा च ॥३।१। ८३ ॥
षष्ठी कविहिताकान्तेन न समस्यते । भक्तस्य भोजकः । अपां स्रष्टा । कर्मजेति किम् ? । गुणो गुणिविशेषकः । सम्बन्धेऽत्र षष्ठी । कर्तरीत्येव । पयःपायिका ॥
तृतीयायाम् ॥ ३।१ । ८४ ॥ कर्तरि सत्यां कर्मजा षष्ठी न समस्यते । साध्विदं शब्दानामनुशासनमाचार्यण । तृतीयायामिति किम् ? । साध्विदं शब्दानुशासनमाचार्यस्य ॥ तृप्तार्थपूरणाव्ययातृश्शत्रानशा ॥ ३ । १ । ८५ ॥"
षष्ठ्यन्तं न समस्यते । फलानां तृप्तः। तीर्थकृतां षोडशः । राज्ञः साक्षात् । रामस्य द्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः ॥
ज्ञानेच्छाचार्थाधारक्तेन ॥३।१। ८६॥
षष्ठ्यन्तं न समस्यते ॥ राज्ञां ज्ञातः, इष्टः, पूजितः । इदमेषां यातम् । इदमेषां भुक्तम् ॥
अस्वस्थगुणैः ॥३।१। ८७ ॥ षष्ठ्यन्तं न समस्यते । पटस्य शुक्लः । गुडस्य.मधुरः। अस्वस्थगुणैरिति किम् ? । घटवर्णः । चन्दनगन्धः ॥
सप्तमी शौण्डायैः ॥३।१। ८८॥