________________
-
- Vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv~~~
समाससकारण
(१२५.) समासस्तत्पुरुषः । पानशौण्डः । अक्षधृतः ॥
सिंहायैः पूजायाम् ॥३।१। ८९॥ सप्तम्यन्तं समासस्तत्पुरुषः । समरसिंहः । भूमिवासवः ॥
काकाद्यैः क्षेपे ॥ ३।१। ९० ॥
सप्तम्यन्तं समासस्तत्पुरुषः। तीर्थकाकः । तीर्थश्वा । क्षेपे किम् । तीर्थे काकस्तिष्ठति ॥
पात्रेसमितेत्यादयः ॥ ३।१ । ९१ ॥
क्षेपे निपात्याः। पात्रेसमिताः। गेहेशूरः। इविशब्दः समासान्तरनिवृत्यर्थः ॥
तेन ॥३।१। ९२ ।। सप्तम्यन्तं समासस्तत्पुरुषः क्षेपे ॥ भस्मनिहुतम् । अवतोनकुलस्थितम् ॥
तत्राहोरात्रांशम् ॥ ३ । १ । ९३ ॥ सप्तम्यन्तं तान्तेन समासस्तत्पुरुषः॥ तत्रकृतम्। पूर्वाह्रकृतम्। पूर्वरात्रकृतम्। तत्राहोरात्रांशमिति किम् ?। घटे कृतम् । अहोरात्रग्रहणं किम् ? । शुक्लपक्षे कृतम् । अंशग्रहण किम् ? । अनि भुक्तम् ॥
नानि ॥३।१।९४ ॥ सप्तम्यन्तं नाम्ना समासस्तत्पुरुषः । अरण्ये तिलकाः ॥
- कृयेनावश्यके ॥३।१।९५॥
सप्तम्यन्तं समासस्तत्पुरुषः । मासदेयम् । कृदिति किम् ? । मासे पित्र्यम् ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥३॥१९॥