________________
समासप्रकरणम्
(१२३)
-
rammarwari
Rammam
PSIVANYAnnu
प्रासादात् पतितः॥
क्तेनासत्त्वे ॥३।१। ७४॥ वर्तमाना या पश्चमी तदन्तं समासस्तत्पुरुषः । स्तोकान्मुक्तः । अल्पान्मुक्तः । असत्त्वे इति किम् ? । स्तोकादद्धः ॥
परःशतादिः ॥३।१ । ७५ ॥ पञ्चमीतत्पुरुषः साधुः । परःशताः । परःसहस्राः॥
षष्ठथयत्नाच्छषे ॥३।१। ७६ ॥ नाम्ना समासस्तत्पुरुषः। राजपुरुषः। जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमित्यादौ सापेक्षत्वान्न । देवदत्तस्य गुरुकुलमित्यादौ सापेक्षत्वेऽपि गमकत्वात् स्यात्। न चेत्स शेषो 'नाथः' इत्यादेयत्नादिति किम् ? । सर्पिषो नाथितम् । शेष इति किम् ? । रुदतः प्रवजितः ॥
कृति ॥३।१ । ७७ ॥ कर्मणि कृतः कर्तरि इति च या कृनिमिता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः । सर्पिर्शानम् । गणधरोक्तिः॥
याजकादिभिः॥३।१ । ७८॥ षष्ट्यन्तं समासस्तुत्पुरुषः । ब्राह्मणयाजकः । गुरुपूजकः ॥
पत्तिरथौ गणकेन ॥३।१ । ७९ ॥ षष्ठ्यन्तौ समासस्तत्पुरुषः । पत्तिगणकः । रथगणकः । पत्तिग्थाविति किम् ? । धनस्य गणकः ॥
सर्वपश्चादादयः ।।३।१। ८०॥ षष्ठीतत्पुरुषाः साधवः। सर्वपश्चात् । सर्वचिरम् ॥
अकेन क्रीडाऽऽजीवे ॥ ३।१ । ८१ ॥