________________
... समासप्रकरणम...
(११९)
wwwvvvrnvvvrrnvvvvv
नाम्ना सह नित्यं समासस्तत्पुरुषः । आकडारः ॥
प्रात्यवपरिनिरादयो गतक्रान्तऋष्टग्लानक्रान्तायाः प्रथमाद्यन्तैः ॥ ३ । १ । ४७॥
प्राचार्यः । समर्थः । अतिखट्वः । उद्वेलः । अवकोकिलः।परिवीरुत् । पर्यध्ययनः । उत्सङ्ग्रामः । निष्कौशाम्बिः । अपशाखः । बाहुलकात् षष्ठीसप्तम्यन्तेनापि । अन्तर्गाग्यः । प्रत्युरसम् । गताद्यर्थी इति किम् ? । वृक्षं परि विद्युत् । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् । एवमुत्तरत्र ॥
अव्ययं प्रवृद्धादिभिः ॥३।१।४८॥ नित्यं समासस्तत्पुरुषः । पुनःप्रवृद्धम् । अन्तर्भूतः ॥
ङस्युक्तं कृता ॥३।१। ४९ ॥ कृत्प्रत्ययविधायके सूत्रे नाम्ना नित्यं समासस्तत्पुरुषः । कुम्भकारः । इह च गतिकारकङस्युक्तानां विभत्तयन्तानामेव कृदन्तैविभत्युत्पत्तेः प्रागेव समास इष्यते । तेन प्रष्ठीत्यादिसिद्धिः। डस्युक्तमिति किम् ? । अलंकृता ॥ .. तृतीयोक्तं वा ॥३।१। ५०॥
दशेस्तृतीयया इत्यारभ्य यत्तत्कृता समासस्तत्पुरुषः । मूलकोपदंशम, मूलकेनोपदंशं भुङ्क्ते ॥
नञ् ॥३।१। ५१ ॥ . नाना समासस्तत्पुरुषः । असः । असूर्यपश्या राजदाराः ॥ पूर्वापराधरोत्तरमभिन्ननाशिना ॥३।१। ५२ ॥
अंशवाचि समस्यते स तत्पुरुषः।। पूर्वकायः । अपरकायः । अपरकायः। उत्तरकायः ॥ अभिनेनेति किम् ? । पूर्व छात्राणामाम