SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कारकाणि. (९५ ) व्याप्ये क्तेनः ॥२।२ । ९९ ॥ नित्यं सप्तमी ॥ अधीती व्याकरणे। इष्टी यज्ञे। केन इति किम्? । कृतपूर्वी कटम् ॥ तयुक्ते हेतौ ॥ २।२।१०० ॥ वर्तमानात् सप्तमी ॥ " चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । . केशेषु चमरी हन्ति सीन्नि पुष्कलको हतः"॥१॥ तद्युक्त इति किम् ? । धनेन वसति ॥ अप्रत्यादावसाधुना ॥ २।२। १०१ ॥ युक्तात् सप्तमी ॥ असाधुमैत्रो मातरि। प्रत्यादिप्रयोगाभाव इति किम् ? । असाधुमत्रो मातरं प्रति परि अनु अभि वा ॥ साधुना ॥२।२ । १०२॥ अप्रत्यादौ युक्तात् सप्तमी । साधुमत्रो मातरि। अप्रत्यादावित्येव । साधुर्मातरं पति परि अनु अभि वा ॥ निपुणेन चार्चायाम् ॥ २।२। १०३ ॥ साधुना युक्तादप्रत्यादौ सप्तमी ॥ मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? । निपुणो मैत्रो मातुः। माता एवैनं निपुण मन्यते । अप्रत्यादावित्येव । निपुणो मैत्रो मातरं प्रति परि अनु अभि वा ॥ स्वेशेऽधिना ॥२।२।१०४ ॥ वर्तमानायुक्तात्सप्तमी ॥ अघि मगधेषु श्रेणिकः । अधि श्रेणिके मगधाः॥ ___ उपेनाधिकिनि ॥ २।२।१०५ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy