________________
( ९४ )
श्रीलघुहेमप्रभाच्याकरणम्.
वा क्लोबे ॥२।२। ९२॥ विहितस्य क्तस्य कर्तरि षष्ठी ॥मयूरस्य मयूरेण वा नृत्तम् ॥
अकमेरुकस्य ॥ २।२। ९३ ॥ कर्मणि न षष्ठी ॥ भोगानभिलाषुकः । अकमेरिति किम् ? । दास्याः कामुकः॥
एष्यहणेनः ।। २।२।९४ ॥ कर्मणि षष्ठी न ॥ ग्राम गमी, आगामी वा । शतं दायी। एष्यहणेति किम् ? । साधु दायी वित्तस्य ॥
सप्तम्यधिकरणे ॥ २ । २ । ९५ ॥ कटे आस्ते । दिवि देवाः । तिलेषु तैलम् ॥
नवा सुजथैः काले ॥२।२। ९६ ॥ ____ युक्तादधिकरणे वर्चमानात् सप्तमी ॥ द्विरति अहो वा भुङ्क्ते । पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । सुजथै रिति किम् ? । अहि भुङ्क्ते ॥
कुशलायुक्तेनासेवायाम् ॥ २।२। ९७॥
युक्तादाधारवाचिनो वा सप्तमी ॥ कुशलो विद्ययां विद्याया वा । युक्तस्तपसि तपसो वा । आसेवायमिति किम् ? । कुशसवित्रे न करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इत्यर्थः ॥
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रतिप्रसूतैः ॥२।२।९८॥
युक्ताद्वा सप्तमी ॥ गोषु गवां वा स्वामी ईश्वरः; अधिपतिः रायादः, साक्षी, मतिभूः, प्रसूतो वा ।।