SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (९६ ) . श्रीलधुमधाग्याकरणम्. युक्तात् सप्तमी ॥ उप खार्या द्रोणः ॥ यद्भावो भावलक्षणम् ॥ २।२।१०६ ॥ यस्य भावेनान्यो भावो लक्ष्यते तद्वाचिनः सप्तमी ॥ देवार्चनायां क्रियमाणायां गतः, कुतायामागतः॥ . गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा॥२ । २ । १०७॥ ___ कुतश्चिदक्थेविवक्षितस्याध्वनोऽवसानमन्तः । यद्भावो भावलक्षणं तस्याध्ववाचिशब्दस्याध्वन एवान्तैनान्तवाचिना सह सामानाधिकरण्यं वा स्यात् तद्विभक्तिस्तस्मात्स्यादित्यर्थः, गते गम्ये॥ लोकमध्याल्लोकान्तमुपर्यधश्च सप्तरज्जूनामनन्ति । सप्तसु रञ्जुषु वा । गत इति किम् ? । दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भृत् । गम्य इति किम् ? । गतप्रयोगे मा भूत् । अध्वन इति किम् ?। कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ?। अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ॥ षष्ठी वाऽनादरे ॥२।२।१०८ ॥ यद्भावो भावलक्षणं तद्वृत्तेः ॥ रुदतो लोकस्य, रुदति लोके वा प्रावाजीत् ।। ... ... - सप्तमी चाविभागे निर्धारणे ॥ २।२। १०९ ॥ गम्ये गौणानाम्नः षष्ठी॥ जातिगुणक्रियासंज्ञा भिः समुदायादेक देशस्य बुद्धया पृथक्करणं निर्धारणम् ।क्षत्रियो नृणां नृषु वा शूरः। कृष्णा गवां गोषु,वा बहुक्षीरा। धावन्तो यातां यात्सु वा शीघ्रतमाः। युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? । मैंत्रश्चैत्रात्पटुः ॥ क्रियामध्येऽध्वकाले पञ्चमी च ॥ २।२ । ११० ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy