________________
(२५६)
नवपद विधि विगेरे संग्रह ॥
॥अथ चैत्यवंदनो॥
॥२॥
नवपदनुं चैत्यवंदन. जैनेन्द्रमिन्द्रमहितं गतसर्वदोषं, ज्ञानाद्यनंतगुणरत्नविशालकोशम् । कर्मक्षयं शिवमयं परिनिष्ठितार्थ, सिद्धं च बुद्धमविरुद्धमहं च वंदे. गच्छाधिपं गुणगणं गणिनं सुसौम्यं, वंदामि वाचकवरं श्रुतदानदक्षम् । क्षान्त्यादिधर्मकलितं मुनिमालिकां च, निर्वाणसाधनपरं नरलोकमध्ये सदशनं शिवमयं च जिनोक्तसत्यं, तत्वप्रकाशकुशलं सुखदं सुबोधम् । छिन्नाश्रवं समितिगुप्तिमयं चरित्रं, कर्माष्टकाष्ठदहनं सुतपः श्रयामि पापौघनाशनकरं वरमंगलं च त्रैलोक्यसारमुपकारपरं गुरुं च । भावातिशुद्धिवरकारणमुत्तमानां, श्रीमोक्षसाख्यकरणं हरणं भवानाम्. भव्यान्जबोधनरवि भवसिंधुनावं, चिंतामणेः सुरतरोरधिकं सुभावम् । तत्त्वत्रिपादनवकं नवकाररूप, श्रीसिद्धचक्रसुखदं प्रणमामि नित्यम्
॥४॥