________________
श्री सिद्धचक्रगुणोनुं स्तोत्र ॥ (१६३) जिनशासनप्रवेशे, द्वारसमो रम्यगुणनिवहः ॥११॥ ६७ सम्यग्दर्शनभेदाःश्रद्धा ४ लिङ्गं ३ विनयाः १०,
शुद्धि ३ दोषाः ५ प्रभावना ८ भणिताः। भूषण ५ लक्षण ५ यतना ६,
आकारा ६ भावना ६ ध्येयाः॥ १२ ॥ स्थाना ६न्येतै दै-रलङ्कृतं दर्शनमतिविशुद्धम् । ज्ञानक्रिययोर्मूलं, शिवसाधनमात्मसौख्यमिदम् ॥१३॥ ५१ ज्ञानभेदाःअष्टाविंशतिभेदाढ्या, मतिः पूर्वमितं श्रुतम् । षोढा चाप्यवधिद्वैधा, मनःपर्यवमीरितम् ॥१४॥ एकं केवलमाख्यात-मेकपञ्चाशदित्यमी। ज्ञानभेदा जिनरुक्ता, भव्याम्भोजविकासकाः ॥१५॥ ७० चारित्रभेदाःव्रत ५ धर्म १० संयमा १७ स्त्विह,
वैयावृत्यानि १० गुप्तयो नव ९ वै। ज्ञानादित्रिक ३ मिह तपः १२,
क्रोधादिनिरोधनं ४ च चारित्रम् ॥१६॥