________________
३२६
परिशिष्ट (७) १३ धात्वीयपंचतीर्थीगतपंचजिनस्तवन.
(सं. द्रुतविलंबितवृत्त) कनककेतककेसरदीधिति, मिलितमुक्तिमहासुखसन्ततिम् । विदितविश्वपति विगतानृतं, नमत नाभिभवं नयनामृतम् ॥ १॥ सुमुखगोमुखयक्षवरेण यः, समनुसेवित आदिमतीर्थपः। दमदयापर कामकलाऽजितः, शिवरमां ददतात्स वृषाङ्कितः ॥२॥ मृदुमृगांकमहाभवभीतिभिद्-गगननीरधिचापतिनुस्सवित् । कलकुमारककांच(न)लकांतिजित् ,
विजयतां जिनशांतित्रिकालवित् ॥ ३॥ सकलसद्गुणरत्नकरण्डकं, भवमहोदधितारतरण्डकम् । सपदि वारितवादवितण्डकं, स्मरत शान्तिजिनेशमचंडकम् ॥४॥ विगतविस्तरघामविरामकं, मुखकलाजिततापनधामकम् । नतसुरासुरशङ्करनामकं, विधनमार्जनताकृतकामकम् ॥ ५॥ घनघनाघनकजलकासितं, परमकेवलभावविभासितम् । नमितनिर्जरराजनरेश्वरं, भजत सुन्दर! नेमिजिनेश्वरम् ॥ ६॥ सकलमंगलमूलमपापकं, विदलिताखिलकर्मकलापकम् । वरविभाभरभासुरभालकं, प्रणत पार्श्वपतिं परपालकम् ॥७॥ तव दिनेश ! दिनेशसमाकृति-जनितलोकसुकोकचमत्कृतिः । रुचिररोचिकलापकलाधृतिः, कृतकुबोधतमोहरणादृतिः ॥ ८॥ मथितमन्मथमन्थुरसङ्कथं, जरितजन्मजरामरणव्यथम् । सबलसजितसंयमसद्रथं, विनुत वीरजिनं धृतसत्पथम् ॥९॥ तरुणतप्तहिरण्यसमत्विषं, दरितरत्यरतिप्रभृतिद्विषम् । विकटसङ्कटकोटिपरामुखं, हृदि विधत्त जिनं विलसत्सुखम् ॥१०॥ इति जगद्गुरुपञ्चकसंस्तव-स्सविनयं 'जिनचन्द्र' कृतस्तवः । सुकविचित्तकृतानघसम्मदः, प्रतनुतात् सुखसन्ततिसम्पदः ॥११॥
इति श्रीधात्वीयपञ्चतीर्थीगतजिनपञ्चकस्तवनम् ।