________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
३८१
કરો અને ત્યારપછી ઉપાધ્યાયજીનો શોધેલો ધર્મસંગ્રહ, તેમાં શ્રાવકને સામાયિક લેતાં પ્રથમ કરેમિ ભંતે એટલે પ્રથમ સામાયિક ઉચ્ચરી પછી हरियावही उहेवानी उही छे तेनी यथार्थ प्र३५॥ उरो तथा चोक्तं श्रीधर्मसंग्रहे -
आवश्यकसूत्रमपि सामायिअं नाम सावज्जजोगपरिवज्जणं णिरवज्जजोगपडिसेवणं चेति तत्रायमावश्यचूर्णियोगशास्त्रवृत्त्याद्युक्तो विधिर्यथा श्रावकः सामायिककर्ता द्विधा भवति ऋद्धिमाननृद्धिकश्च । योऽसावनृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति जिनगृहे साध्वंतिके पौषधशालायां स्वगृहे वा यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते तत्र च यदा साधुसमीपे करोति तदायं विधिः यदि कस्माच्चिदपि भयं नास्ति केनचिद्विवादो नास्ति क्षणं वा न धारयति मा भूत्तत् कृताकर्षणापकर्षणनिमित्तसंक्लेशः तदा स्वगृहेऽपि सामायिकं कृत्वा ईर्ष्या शोधयन् सावद्यां भाषां परिहरन् काष्टलोष्ट्वदिना यदि कार्यं तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्ज्यं च गृह्णन् खेलसिंघाणकादींश्चाविवेचयन् विवेचयंश्च स्थंडिलं प्रत्यवेक्ष्य प्रमृज्य पंचसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति तत्सूत्रं यथा करेमि भंते सामाइअं सावज्जं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पा वोसिरामित्ति । एवं कृतसामायिक ईर्ष्यापथिक्याः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन्वंदते पुनरपि गुरुं वंदित्वा प्रत्युपेक्षितासने निविष्टः शृणोति पठति पृच्छति वा एवं चैत्यभवनेऽपि द्रष्टव्यं । यदा तु पौषधशालायां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवास्ते तदागमनं नास्ति । यस्तु राजादिमहद्धिकः स गंधसिंधुरस्कंधाधिरूढश्छत्रचामरादिराज्यालंकृतो हास्तिकाश्वीयपादातिकरथकाद्यापरिकरितो भेरीभांकारभरितांबरतलो बंदिवृंदकोलाहलाकुलीकृत