________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૩૨૯ व्या. - यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा सड्ढाइकहण वाघायत्ताए पच्छा गुरु ठंतित्ति निगदसिद्धमिति गाथार्थः ॥१०॥
यदा च पश्चाद्गुरवस्तिष्ठति तदा - सेसाउ गाहा० ॥११॥
व्या. - शेषाः साधवः यथाशक्ति शक्त्यनुरूपं यो हि यावंतं कालं स्थातुं समर्थः आपुच्छित्ता तु गुरु ठंति सट्ठाणे सामायिकं काऊण किं निमित्तं ? सुत्तत्थसरणहेउ सूत्रार्थस्मरणहेतुः । आयरिए ठियंमि देवसियंमि आयरिए पुरओ ठिए तस्स । सामाइयावसाणे देवसियं अइआरं चितंति अन्ने भणति जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तह ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणासपच्छा देवसियं ति गाथार्थः ॥११॥
शेषास्तु यथाशक्तिरित्युक्तं यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किंकुर्यादिति तद्गतं विधिमभिधित्सुराह - जो हुज्जओ गाहा० ॥१२॥ ___ व्या. - यः कश्चित्साधुर्भवेदसमर्थः कायोत्सर्गेण स्थातुं स किंभूत इत्याह बालो वृद्धः ग्लानः परितोत्ति परिश्रांतो गुरुवैयावृत्त्यकरणादिना असावपि कथादिभीरहितः सन् ध्यायेत्सूत्रार्थं जा गुरु ठंति यावत् गुरवस्तिष्ठंति कायोत्सर्गमिति गाथार्थः ॥१२॥
आचार्ये स्थिते देवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह - छ जादेव सियं गाहा० ॥१३॥
व्या. - निगदसिद्धा नवरं चेष्टा व्यापाररूपावगंतव्या ॥१३॥ पवइयाणं च चेट्ठगाहा० ॥१४॥ नमोक्कारचउविसगाहा० ॥१५॥ व्या. - नमोक्कारेत्ति काउस्सग्गसमत्तीए नमोक्कारेण पारेत्ति नमो अरिहंताणंति चउवीसगत्ति पुणो जेहि इमं तित्थं देसियं तेसिं तित्थकराणं उसभाईणं चउवीसत्थएण उकित्तणं करेति लोगस्स