________________
૨૮૮
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર સમાધાનપૂર્વક વિચાર અસ્મત્કૃત સ્તુતિનિર્ણયવિભાકરથી જાણવો, ગ્રંથગૌરવના ભયથી લખ્યો નથી, પરંતુ ચોથી થાય તો ગીતાર્થ આચરિત આચરણાએ શ્રી પ્રવચનસારોદ્ધાર બૃહદ્રવૃત્તિમાં શ્રી સિદ્ધસેનસૂરિજીએ કહી छ. ते पा :
नन्वेता आशातना जिनालये क्रियमाणा गृहिणां कंचन दोषमावहंति उतैवमेव न करणीयास्तत्र ब्रूमो, न केवलं गृहिणां सर्वसावद्यकरणोद्यतानां भवभ्रमणादिकं दोषमावहंति किं तु निरनद्याचाररतानां मुनीनामपि दोषमावहतीत्याह ॥ आसायणाउ इत्यादि । एता आशातनाः परिस्फुरद्विविधदुःखपरंपराप्रभवभवभ्रमणकारणमिति विभाव्य यतयोऽस्नानकारित्वेन मलमलिनदेहत्वात् न जिनमन्दिरे निवसंति इति समय: सिद्धांतस्तमेव समयं व्यवहारभाष्योक्तं दर्शयति दुब्भिगंधेत्यादि ॥ एषा तनुः स्नापितापि दुरभिगंधमलप्रस्वेदश्राविणी तथा द्विधावायुपथोऽधोवायुनिर्गम उच्छ्वासनिःश्वासनिर्गमश्च यद्वा द्विधा मुखेन अपानेन च वायुवहोवापि वातवहनं च तेन कारणेन न तिष्ठति यतयश्चैत्ये जिनमन्दिरे । यद्येवं व्रतिभिश्चैत्येष्वाशातनाभीरुभिः कदाचिदपि न गंतव्यं ? तत्राह "तिन्नि वा कडईत्यादि" तिस्त्रः स्तुतयः कायोत्सर्गादनंतरं वा दीयंते ता यावत्कर्षति भणतीत्यर्थः किं विशिष्टास्तत्राह त्रिश्लोकिकाः त्रयः श्लोकाः छंदोविशेषरूपा आधिक्येन या सुतास्तथा सिद्धाणं बुद्धाणमित्येकः श्लोको जो देवाणवि इति द्वितीय इक्कोवि नमुक्कारो इति तृतीय इति अग्रेतनगाथाद्वयं स्तुतिश्चतुर्थी गीतार्थाचरणेनैव क्रियते गीतार्थाचरणं तु मूलगणधरभणितमिव सर्वं विधेयमेव सर्वैरपि मुमुक्षुभिरिति तावत्कालमेव तत्र जिनमंदिरेऽनुज्ञातमवस्थानं यतीनां कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं शेषकाले तु साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थंकरगणधरादिभिस्ततो व्रतिभिरप्येवमाशातनाः परिहियंते गृहस्थैस्तु सुतरां परिहरणिया इति