________________
૨૬૫
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
ततो गौशीर्षचंदनरसेन पंचांगुलितलैर्मंडलालेखनादि पुष्पप्रकरारात्रिकादि गीतनृत्यादि च कुर्यात् सर्वमप्येतदग्रपूजैव । यद्भाष्यं - गंधव्वनट्टवाइअ लवणजलारत्तिआइ दीवाई । जं किच्चंतं सव्वंपि ओअरइ अग्गपूआए ॥१॥ इत्यग्रपूजा । भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनषेधिकीकरणपूर्वं जिनाद्दक्षिणदिशि पुमान् स्त्री तु वामदिशि आशातनापरिहारार्थं जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तहस्तार्द्धमानादुत्कृष्टतस्तु षष्ठिहस्तमानादवग्रहाबहिः स्थित्वा चैत्यवन्दनां विशिष्टस्तुत्यादिभिः कुर्यात् । आह च - तइआ उ भावपूआ, ठाउं चिइवंदणोचिए देसे । जहसत्तिचित्तथुई, थुत्तमाइणा देववंदणयं ॥१॥ निशीथेऽपि “सो उ गंधारसावओ थयथुईहिं थुणं तो तत्थ गिरिगुहाए अहोरत्तनिवसिओं ॥१॥" तथा वसुदेवहिंडौ - "वसुदेवो पच्चुसे कयसमत्तसावयसामाइयाई नियमो गहीय पच्चक्खाणो कयकाउसग्गथुईवंदणो'"त्ति । एवमनेकात्र श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तं सा च जघन्यादिभेदात् त्रिधा । यद्भाष्यं - नमुक्कारेण जहन्ना चिइवंदणमज्झदंडथुई जुअला । पणदंड थुईचउक्कग थयपणिहाणेहिं उक्कोसा ॥१॥ व्याख्या - नमस्कारेणांजलिबंधशिरोनमनादिलक्षणप्रणाममात्रेण गद्धा नमो अरिहंताणमित्यादिना अथवैकश्लोकादिरूपनमस्कारपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन जातिनिर्देशाद्बहुभिरपि नमस्कारैः क्रियमाणा जघन्या स्वल्पा पाठक्रिययोरल्पत्वाद्वंदना भवतीति गम्यं । प्रणामः पंचधा - एकांग: शिरसो नामे, स्याव्यंगः करयोर्द्वयोः । त्रयाणां नामने व्यंगः, करयोः शिरस्तथा ॥१॥ चतुर्णां करयोर्जान्वोर्नमनं चतुरंगकः ।