________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
तथा च व्यवहारभाष्यं
सत्थपरिन्ना छक्कायसंजमो पिंड उत्तरज्जाए ।
रुक्खे वसहे गोवे जोहे साही य पुक्खरिणी ॥ १ ॥
अस्या अयमर्थलेश: - शस्त्रपरिज्ञाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुत्थापनीय इत्यप्रमेयप्रभावपारमेश्वरप्रवचनमुद्रा जीतं, पुनः षट्कायसंयमो दशवैकालिकचतुर्थाध्ययने षड्जीवनिकायाख्ये ज्ञाते भिक्षुरुत्थाप्यत इति । तथा पिंडैषणायां पठितायामुत्तराध्ययनान्यधीयते स्म संप्रति तान्यधीत्याचार उद्दिश्यते । पूर्वकल्पपादपा लोकस्य शरीरुस्थितिहेतवोऽभूवन्निदानीं सहकारकरीरादिभिर्व्यवहारः । तथा वृषभाः पूर्वमतुलबला धवलवृषभा बभूवुः, संप्रति धूसरैरपि लोको व्यवहरति । तथा गोपाः कर्षकाश्चक्रवर्त्तिगृहपतिरत्नवत्तद्दिन एव धान्यनिष्पादका आसन्, संप्रति ताद्गभावेऽपीतरकर्षकैर्लोको निर्वहति । तथा पूर्वं योधाः सहस्त्रयोधादयः समभवन् संप्रत्यल्पबलपराक्रमैरपि राजानः शत्रूनाक्रम्य राज्यमनुपालयंति । तद्वत्साधवोऽपि जीतव्यवहारेणापि संयममाराधयंतीत्युपनयः तथा शोधिः प्रायश्चित्तः षाण्मासिक्यामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरुपितेति पुष्करिण्योऽपि प्रोक्तनीत्याहीना अपि लोकोपकारीण्येवेति दाष्टतिकयोजना पूर्ववत् । एवमनेकधा जीतमुपलभ्यत इति ॥८३॥ अथवा किं बहुना
जं सव्वहा न सुते पडिसिद्धं, ने य जीववहहेउ ।
तं सव्वंपि पमाणं चारित्तधणाण भणियं च ॥८४॥
-
૪૧
यत्तु सर्वथा सर्वप्रकारैर्नैव सूत्रे सिद्धान्ते प्रतिषिद्धं निवारितं सुरासेवनवत् । उक्तं च
न य किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं ।
मोत्तुं मेहुणभावं न तं विणा रागदोसेहिंति ॥ १ ॥
-