________________
૪૨
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર नापि जीववधहेतुराधाकर्मग्रहणवत्, तदनुष्ठानं सर्वमपि प्रमाणं चारित्रमेव धनं येषां ते चारित्रधनानां चारित्रिणामागमानुज्ञात्वाद्भणितमुक्तं च पूर्वाचार्यैरिति ॥८४॥ यद्भणितं तदेवाह - अवलंबिऊण कज्जं जं किंपि समायरंति गीयत्था । थोवावराहबहुगुणं सव्वेसिं तं पमाणं तु ॥८५॥
अवलंब्याश्रित्य कार्य संयमोपकारि यत्किमपि समाचरन्ति सिद्धान्तानुयाय्याचरंत्यासेवंति गीतार्था विदितागमतत्त्वाः स्तोकापराधमल्पदोषं निष्कारणपरिभोगत्वेन प्रायश्चित्तापत्तेः बहुगुणं गुरुग्लानबालवृद्धक्षपकादीनामुपष्टंभेन बहूपकारं मात्रकादिपरिभोगवत्, सर्वेषामपि चारित्रिणां तत्प्रमाणमेव । तुशब्दस्यैवकारार्थत्वादार्यरक्षितसूरिसमाचरितं दुर्बलिकापुष्पमित्रस्यैव ॥८५॥
तथा ॥ अत्र कश्चिदेवमाह - नन्वेवमाचरित् युष्माभिः प्रमाणीकृतेऽस्माकं पितृपितामहादयो नानारम्भमिथ्यात्वक्रियाप्रवृत्तयोऽभूवन् ततोऽस्माकमपि तथैव प्रवर्तितुमुचितं इत्यत्रोच्यते - सौम्यमार्गेणापि नीयमानान्नोन्मार्गेण गमः यतोऽस्माभिः संविग्नाचरितमेव स्थापितं न सर्वपूर्वपुरुषाचरितमित्यत एवाह - जं पुण पमायरूवं गुरुलाघवचिंतविरहियं ।। सवहं सुहसीलसड्ढाइन्नं चरित्तिणो तं न सेवंति ॥८६॥
यत्पुनराचरितं प्रमादरूपं संयमबाधकत्वात्, अत एव गुरुलाघवचिंताविरहितं समुणमपगुणं चेति पर्यालोचवर्तितमत एव सबधं यतनाभावात् सुखशीला इहलोकप्रतिबद्धाः शठा मिथ्यालंबने प्रधानास्तराचीर्णं समाचरितं चारित्रिणः शुद्धचारित्र-वंतस्तन्न सेवंते नानुतिष्ठंतीति ॥८६॥
अस्यैवोल्लेखं दर्शयन्नाह -