________________
४०
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર गदितागमे किंचिद्वस्तु कालादिकारणापेक्षं दुःषमादिस्वरूपालोचनपूर्वकमाचीर्णं व्यवहृतमन्यथैव चियशब्दस्यावधारणार्थत्वात् दृश्यते साक्षादुपलभ्यते संविग्नगीतार्थैरुक्तस्वरूपैरिति ॥८१॥ किं तदित्याह - कप्पाणं पावरणं अग्गोयरपाउज्झोलियाभिक्खा । उवग्गहिय कदाहय तुंबय मुहदाण दोराई ॥८२॥ व्याख्या॥ कल्पानामात्मप्रमाणायामसार्द्धद्विहस्तविस्तराणामागमप्रतीतानां प्रावरणं परितो वेष्टनं प्रतीतमेव ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृताः रकंधकता एव वोढव्या इत्यागमाचारः। संप्रति प्राव्रियन्ते, अग्गोयरत्ति अग्रावतारः परिधानविशेषः साधुजनप्रतीतस्तस्य त्यागः, कटीपदकस्यान्यथाकरणं तथा झोलिका ग्रन्थिद्वयनियंत्रितपात्रबंधरूपा तया भिक्षा, आगमे हि मणिबन्धप्रत्यासन्नं पात्रबंधांचलद्वयं मुष्ट्य ध्रियते, कर्पूरसमीपगमेव बध्यत इति व्यवस्था तथौपग्रहिककटाहकतुंबकमुखदानदवरकादयः सुविहिता एव साधूनामाचरिताः संप्रतीति गम्यते॥८२॥ तथा - सिक्किग्गनिक्खिवणाई पज्जोसवणाई तिहिपरावत्तो । भायणविहि अन्नत्तं एमाई विविहमन्नंपि ॥८३॥ सिक्किक्कादवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बंधवमर्थात्यात्राणामादिशब्दात् शुक्तिलेपेनपात्रलेपनादि तथा पर्युषणादितिथिपरावर्त्तः पर्युषणासांवत्सरिकमादिशब्दाच्चातुर्मासिकपरिग्रहस्तयोस्तिथिपरावर्त्य तिथ्यंतरकरणं सुप्रतीतमेतत् तथा भोजनविधिरन्यत्वं यतिजनप्रसिद्धमेव एमाइत्ति प्राकृतशैल्यैवंशब्दे वकारलोपस्तत एवमादिग्रहणेन षड्जीवनिकायामप्यधीतायां शिष्य उत्थाप्य इत्यादि गीतार्थानुमतं विविधमन्यदप्याचरितं प्रमाणीभूतमस्तीत्यवगंतव्यम् ।