________________
| कया मनुष्यो मर्कटो भवेत् तत् श्रुत्वा सा प्राह हे स्वामिन् यया मनुष्योऽपि पशुत्वं प्राप्नुयात्तया मूलिकया किं प्रयोजनं ? पुनर्योगी प्राह हे प्रिये द्वितीयाप्यत्रैकैवंविधा मूलिकास्ति यया चाघातया मर्क॥ ५३ ॥ टोsपि मनुष्यः स्यात् ततो योगिन्या प्रेरितो योगी तन्मूलिकाद्वयं गृहीत्वा स्वपत्नीयुतोऽन्यत्र ययौ . अथायं सर्वोऽपि वृत्तांतो जागरुकेण रूपसेनकुमारेण श्रुतो दृष्टश्च ततो विस्मितेन कुमारेणापि तन्मूलि - काद्वयं गृहीतं. अथ कनकवती जागृता कुमारश्च सुप्तः, क्षणेन तस्य निद्रापि समागता. ततः कनकवत्या चिंततमेतद्ग्रंथिं विलोकयामीति ततो यावत्तां ग्रंथिं छोटयित्वा सा विलोकयति तावत्तया तन्मध्ये थापात्रदंडादि दृष्टं तद् दृष्ट्वा चमत्कृता सा चिंतयामास नूनमयं कोऽपि धूर्तों योगी दृश्यते, वेषपरावर्तनेन धूर्तविद्ययाडंबरेण चाहं मुग्धानेनेयत्कालं विप्रतारितास्मि यतः - प्रथमं डंबरं दृष्ट्वा । न प्रतीयाद्विचक्षणः ॥ अत्यल्पपठितं कीरं । तेनेव कुट्टिनी यथा ॥ २०० ॥ तथाहि - सिंदूरपुरे मदनकाभिधो धूर्त एको विप्र आसीत् तेनैकः शुकः पाठयितुमारेभे, परं तस्य शुकस्य तु किमपि नायाति ततस्तेन शठेन 'वीसेवीसा' इत्येकमेव पदं स पाठितः ततस्तं सुंदरपंजरमध्ये संस्थाप्य चतुष्पथे तद्विक्रयार्थ स्थितः इत एका वेश्या तत्र समायाता, तया विप्रंप्रति पृष्टं भो विप्र अयं शुकः किं वेत्ति ? विप्रः प्राह
1
रूपसेन
:
1696
चरित्रम्
॥ ५३ ॥