________________
रूपसेन
॥ ४२ ॥
:: नऊव
| देशेन प्रतिहारेण प्रेषितः स राजसभायां प्राप्तो राजानं प्रणम्य योग्यस्थाने समुपाविशत्. अथ महातेजस्विनं तं रूपसेनकुमारं दृष्ट्वा सभ्या विचारयामासुः, यत्किमयं देवकुमारो वा विद्याधरो वा सहस्रकिरणो वा शीतकरोऽस्ति ? तावता तत्र स्थितया तया मुख्यवेश्यया सिंदूरारुणानि तस्य वस्त्रादीनि विलोक्य राज्ञे ज्ञापितं, हे स्वामिन्नेष एव पुरुषः कुमार्या आवासे गत्वा तया सहानाचारं सेवते. तत् श्रुत्वा विस्मितेन राज्ञा तस्यै पृष्टं भो वेश्ये त्वयैतत्कथं ज्ञातं ? ततस्तया तस्य सिंदूरलितवस्त्राद्यभिज्ञानं दर्शितं. अथ राज्ञा तद्विषये पृष्टो रूपसेनकुमारः प्राह, हे स्वामिन् वेश्ययोक्तं सर्वमपि सत्यमस्ति, एतद्राविरुद्धं कर्म मयैव कृतमस्ति, अतो ममैव दंडः कार्यः, अपरे चेमे सर्वेऽपि मोचनीयाः, एतेषां केषामप्यत्र दोषो नास्ति तद्वचनानि श्रुत्वा सर्वेऽपि सभालोका विस्मिताः संतश्चिंतयामासुरहो तैले मक्षि| कावदयमत्र कुतः समापतितः, अहोऽमुष्य कोदृशं साहसमस्ति ! मुखे च कार्यमपि नास्ति यतः - संतो न यांति चैवर्ण्य - मापत्सु पतिता अपि ॥ दग्धोऽपि वह्निना शंखः । शुभ्रत्वं जैव मुंचति ॥ ५८ ॥ तथा च - विपदि धैर्यमथाभ्युदये क्षमा । सदसि वाक्पटुता युधि विक्रमः ॥ यशसि चाभिरुचिर्व्यसनं श्रुतो । प्रकृतिसिद्धमिदं हि महात्मनां ॥ ५९ ॥ अथ राज्ञोक्तं - धुष्टो दुष्टश्च पापिष्टो । निर्लज्जो निर्दयः कुधीः ॥
चरित्रम्
॥ ४२ ॥